Posts

Showing posts with the label 21.00 ॥ श्रीकृष्णसहस्रनामावलिः ॥

21.00 ॥ श्रीकृष्णसहस्रनामावलिः ॥

॥ श्रीकृष्णसहस्रनामावलिः ॥ ॐ कृष्णाय नमः । श्रीवल्लभाय । शार्ङ्गिणे । विष्वक्सेनाय । स्वसिद्धिदाय । क्षीरोदधाम्ने । व्यूहेशाय । शेषशायिने । जगन्मयाय । भक्तिगम्याय । त्रयीमूर्तये । भारार्तवसुधास्तुताय । देवदेवाय । दयासिन्धवे । देवाय । देवशिखामणये । सुखभावाय । सुखाधाराय । मुकुन्दाय । मुदिताशयाय नमः ॥ २० ॐ अविक्रियाय नमः । क्रियामूर्तये । अध्यात्मस्वस्वरूपवते । शिष्टाभिलक्ष्याय । भूतात्मने । धर्मत्राणार्थचेष्टिताय । अन्तर्यामिणे । कालरूपाय । कालावयवसाक्षिकाय । वसुधायासहरणाय । नारदप्रेरणोन्मुखाय । प्रभूष्णवे । नारदोद्गीताय । लोकरक्षापरायणाय । रौहिणेयकृतानन्दाय । योगज्ञाननियोजकाय । महागुहान्तर्निक्षिप्ताय । पुराणवपुषे । आत्मवते । शूरवंशैकधिये नमः ॥ ४० ॐ शौरये नमः । कंसशङ्काविषादकृते । वसुदेवोल्लसच्छक्तये । देवक्यष्टमगर्भगाय । वसुदेवस्तुताय । श्रीमते । देवकीनन्दनाय । हरये । आश्चर्यबालाय । श्रीवत्सलक्ष्मवक्षसे । चतुर्भुजाय । स्वभावोत्कृष्टसद्भावाय । कृष्णाष्टम्यन्तसम्भवाय । प्राजापत्यर्क्षसम्भूताय । निशीथसमयोदिताय । शङ्खचक्रगदा पद्मपाणये । पद्मनिभेक्षणाय । किरीटिने । कौस्तुभोरस्काय । स्फुरन्म...